|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.180. अध्यायः 180
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरेण जगत्सृष्टिप्रकारं पृष्टेन भीष्मेण भरद्वाजाय भृगूदितसृष्टिप्रकारकथनारम्भः॥ 1॥ भृगुणा भरद्वाजं प्रतिमहत्तत्त्वादिपद्मपर्यन्तसृष्टिप्रकारकथनम्॥ 2॥ तथा पझकर्णिकाभूतमेरुस्थेन ब्रह्मणा लोकसृष्टिकथनम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-180-0x(5912)(72249)
कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम्।
प्रलये च किमभ्येति तन्मे ब्रूहि पितामह॥ 12-180-1(72250)
ससागरः सगगनः सशैलः सबलाहकः।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः॥ 12-180-2(72251)
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः।
शोचाशौचं कथं तेषां धर्माधर्मावथो कथम्॥ 12-180-3(72252)
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः।
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान्॥ 12-180-4(72253)
भीष्म उवाच। 12-180-5x(5913)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
भृगुणाऽभिहितं श्रेष्ठं भरद्वाजाय पृच्छते॥ 12-180-5(72254)
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा।
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत॥ 12-180-6(72255)
ससागरः सगगनः शशैलः सवलाहकः।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः॥ 12-180-7(72256)
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः।
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्। 12-180-8(72257)
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः।
परलोकमिमं चापि सर्वं शंसितृमर्हसि॥ 12-180-9(72258)
एवं स भगवान्पृष्टो भरद्वाजेन संशयम्।
ब्रह्मर्पिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत्॥ 12-180-10(72259)
भृगुरुवाच। 12-180-11x(5914)
`नारायणो जगन्मूर्तिरन्तरात्मा सनातनः।
कूटस्थोऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः॥ 12-180-11(72260)
प्रकृतेः परतो नित्यमिन्द्रियैरप्यगोतरः।
स सिसृक्षुः सहस्रांशादसृजत्पुरुषं प्रभुः॥' 12-180-12(72261)
मानसो नाम यः पूर्वो विश्रुतो वै महर्षिभिः।
अनादिनिधनो देवस्तथाऽभेद्योऽदजरामरः॥ 12-180-13(72262)
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः।
यतः सृष्टानि भूतानि तिष्ठन्ति च म्रियन्ति च॥ 12-180-14(72263)
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः।
महान्ससर्जाहंकारं स चापि भगवानथ।
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः॥ 12-180-15(72264)
आकाशादभवद्वारि सलिलादग्निमारुतौ।
अग्निमारुतसंयोगात्ततः समभवन्मही॥ 12-180-16(72265)
ततस्ते गेमयं दिव्यं पद्मं सृष्टं स्वयंभुवा।
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः॥ 12-180-17(72266)
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत्।
ब्रह्मा वै स महातेजा य एते पञ्चधातवः॥ 12-180-18(72267)
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी।
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा॥ 12-180-19(72268)
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः।
दिवाकरश्च सोमश्च नयने तस्य विश्रुते॥ 12-180-20(72269)
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः।
दुर्विज्ञेयो ह्यनन्तात्मा सिद्धैरपि न संशयः॥ 12-180-21(72270)
स एष भगवान्विष्णुरनन्त इति विश्रुतः।
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्माभः॥ 12-180-22(72271)
अहंकारस्य यः स्रष्टा सर्वभूतोद्भवाय वै।
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया॥ 12-180-23(72272)
भरद्वाज उवाच। 12-180-24x(5915)
गगनस्य दिशां चैव भूतलस्यानिलस्य च।
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थितः॥ 12-180-24(72273)
भृगुरुवाच। 12-180-25x(5916)
अनन्तमेतदाकाशं सिद्धचारणसेवितम्।
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते॥ 12-180-25(72274)
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः।
तत्र देवाः स्वयं दीप्ताः सूर्यभासोऽग्निवर्चसः॥ 12-180-26(72275)
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः।
दुर्गमत्वादनन्तत्वादिति वै विद्धि मानद॥ 12-180-27(72276)
उपर्युपरि तैर्देवैः प्रज्वलद्भिः स्वयंप्रभैः।
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि॥ 12-180-28(72277)
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम्।
तप्नसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च॥ 12-180-29(72278)
रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः।
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम्॥ 12-180-30(72279)
एवमन्तं हि नभसः प्रमाणं सलिलस्य च।
अग्निमारुतयोश्चैव दुर्ज्ञेयं दैवतैरपि॥ 12-180-31(72280)
अग्निमारुततोयानां वर्णाः क्षितितलस्य च।
आकाशसदृशा ह्येते भिद्यन्तेऽतत्वदर्शनात्॥ 12-180-32(72281)
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च।
त्रैलोक्यसागरे चैव प्रमाणं विहितं यथा॥ 12-180-33(72282)
अदृश्यत्वादगम्यत्वात्कः प्रमाणमुदाहरेत्।
सिद्धानां देवतानां च यदा परिमिता गतिः।
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम्॥ 12-180-34(72283)
नामधेयानुरूपस्य मानसस्य महात्मनः।
यदा तु र्दिव्यं यद्रूपं ह्रसते वर्धते पुनः।
कोऽन्यस्तद्वेदितुं शक्तो योपि स्यात्तद्विधोऽपरः॥ 12-180-35(72284)
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः॥ 12-180-36(72285)
भरद्वाज उवाच। 12-180-37x(5917)
पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम्।
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे॥ 12-180-37(72286)
भृगुरुवाच। 12-180-38x(5918)
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते॥ 12-180-38(72287)
कर्णिकां तस्य पद्मस्य मेरुर्गगमुच्छ्रितः।
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः।
मानसांश्च तथा देवान्भूतानि विविधानि च॥ ॥ 12-180-39(72288)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अशीत्यधिकशततमोऽध्यायः॥ 180॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-180-3 कथमिति सृष्टिप्रकारप्रश्नः। विभक्तयो विभागाः॥ 12-180-4 जीवतां प्राणिनाम्॥ 12-180-20 अग्नीषोमौ तु चन्द्रार्कौ नयने इति झ. पाठः। तत्र अग्नीषोमावेव चन्द्रार्कावित्यन्वयः॥ 12-180-23 भूतोद्भवाय भूतोत्पत्तये। स्रष्टाहंकारस्येति संबन्धः। यतो विश्वं समभवद्यव त्वयाहं पृष्टस्तत्तुभ्यमुक्तमिति शेषः॥ 12-180-24 छिन्धि तत्वत इति झ. पाठः॥ 12-180-25 आश्रयाश्चतुर्दशभुवनानि॥ 12-180-26 गतेः सूर्यरश्मिगतेरपि ऊर्ध्वमधस्ताच्च चन्द्रादित्यौ न दृश्येते॥ 12-180-27 तेऽपि सूर्यादिगतेरूर्ध्वाधस्था अपि॥ 12-180-32 वर्णाः स्वरूपाणि आकाशसदृशाः आकाशवदनन्ताः। अतत्वदर्शनात् पृथिव्यादीनां तत्वानवगमात्। भिद्यन्ते परिच्छिन्नवदाभान्ति॥ 12-180-33 कथतर्हि पञ्चाशत्कोटियोजनविस्तारायामादिरूपं परिमाणं पठन्तीत्यत आह पठन्तीति॥ 12-180-34 अदृश्याय त्वगम्याय इति झ. पाठः॥ 12-180-36 ब्रह्मा चतुर्मुखः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|